ABOUT US​

भारतवर्षस्य हृदयं संस्कृतम् अस्ति। संस्कृतभाषा सर्वासां भाषाणां जननी अस्ति। अपि च भारतीया संस्कृतिः संस्कृते निहिता अस्ति । सम्प्रति जनाः पाश्चात्यसंस्कृत्याः अनुकरणं कुर्वन्तः सन्ति। तदा भारतीयतायाः रक्षणं कथं भवेत् इति यक्षप्रश्नः वर्तते । भारतीयतायाः रक्षणार्थं संस्कृतस्य आवश्यकता अस्ति। वर्तमानसमये संस्कृतस्य रक्षणम् अस्माकं कर्तव्यं वर्तते । अतः कर्तव्यम् अधिकृत्य ” एकलव्य संस्कृत एकेडेमीद्वारा ” केचन कार्यक्रमाः स्वीकृताः सन्ति। एते कार्यक्रमाः अतीव सरलाः रोचकाः च सन्ति। एतेषां कार्यक्रमाणां माध्यमेन संस्कृतस्य प्रचारे वेगः भविष्यति। आगच्छन्तु एतेषु कार्यक्रमेषु भागं स्वीकृत्य वयम् अस्माकं कर्तव्यं पालयामः ।

Sanskrit is the heart of India. Sanskrit literature is deep. A culture of a country lies in its language. As time proceeds, many countries have started copying the western culture and are blindly following the western world. So there is a challenge to preserve the Indian culture. And for that, Sanskrit is necessary. It is our duty to safeguard Sanskrit. Accepting the responsibility of this duty, “Eklavya Sanskrit Academy” has announced certain Programmes. These Programmes are interesting and easy. This will accelerate the spread of Sanskrit. Let us participate and perform this duty. EKLAVYA SANSKRIT ACADEMY, a registered not for profit organization for “Sanskrit prachar”.

कार्यक्रमाणां विवरणम् :-​

(१) शैक्षणिककार्यक्रमाः

१.१ संस्कृतभाषाशिक्षणम् संस्कृतभाषाशिक्षणे सरलतया, वैज्ञानिकपद्धत्या, प्रत्यक्षपद्धत्या च संस्कृतसम्भाषणस्य अभ्यासः भवति, तेन भवन्तः संस्कृतं वक्तुं समर्थाः भवन्ति।

१.२ शिक्षकप्रशिक्षणम् शिक्षक प्रशिक्षणवर्गे प्रत्यक्षपद्धतिद्वारा, सरलतया, रोचकतया च संस्कृतं कथं पाठनीयम् इत्यस्य प्रशिक्षणं शिक्षकेभ्यः दीयते।

१.३ बालसंस्कृतवर्गः एतत् केन्द्रं बालकानां कृते अस्ति। बालसंस्कृतवर्गे लोकमाध्यमेन, सूक्तिमाध्यमेन, कथामाध्यमेन च भारतीयसंस्कृत्याः परिचयः संस्कारसिञ्चनस्य प्रयत्नः च भवति।

१.४ महिलाकेन्द्रम् एतत् केन्द्रं महिलानां कृते अस्ति। अस्मिन् केन्द्रे श्लोकानां, स्तूतीनां च पाठनं भवति।

१.५ संस्कृतमार्गदर्शनम् अत्र विद्यालये महाविद्यालये च ये छात्राः संस्कृतं पठन्ति तेभ्यः अभ्यासक्रमस्य मार्गदर्शनं क्रियते । विशेषतः दशम्याः द्वादश्याः च कक्षयोः छात्राणां कृते अत्र व्यवस्था वर्तते।

१.६ विभिन्नेषु विषयेषु व्याख्यानम् संस्कृते वेद-इतिहास-पुराण-दर्शन आधुनिकाः अनेके विषयाः निहिताः सन्ति। एतेषु विषयेषु व्याख्यानानि भवन्ति।

(२) सांस्कृतिककार्यक्रमाः

२.१ नाटकानां प्रयोगः संस्कृतसाहित्यस्थानां नाटकानां प्रयोगाः भविष्यन्ति।

२.२ उत्सवोचिताः कार्यक्रमाः संस्कृत लिटरेचर फेस्टिवल, संस्कृतगरबा, संस्कृतभजनसन्ध्या, संस्कृतकाव्यगोष्ठी, संस्कृतनाटिकाः ।

(३) प्रकाशनम्

३.१ मासिकी पत्रिका।

३.२ पुस्तकानि ।

३.३ शैक्षणिक-बिन्दवः  ।

(४) संस्कृतपुस्तकालयः

अस्माकं कल्पना अस्ति यत् एकस्मिन् एव स्थाने सर्वे संस्कृतग्रन्थाः उपलब्धाः भवेयुः ।

All the above Programmes are aimed at increasing the speaking and reading of Sanskrit language and literature among the people. We look forward to welcoming more and more participants.

Details of the programmes:-

(1) Educational Programmes :

1.1 Sanskrit Bhasha Shikshanam At the संस्कृतभाषाशिक्षणम्, Sanskrit will be taught in a scientific, direct and easy method. People will be able to speak in Sanskrit.

1.2 Diploma in Sanskrit Teaching In the teachers training program, training will be given to teachers about how Sanskrit can be taught by direct and easy method making it more interesting.

1.3 Bal Sanskrit Vargah – Value Education Through Sanskrit  It is a center for children. Indian culture will be inculcated through slokas, proverbs and quotes in Sanskrit.

1.4 Center for Women Chanting of Shlokas and Stutis will be taught and the same will be explained expanding the ideas.

1.5 Sanskrit Guidance This will be mainly for students studying in Schools and Colleges, guiding them about their curriculum with examination in mind. There is a special arrangement for students of class 10 & 12.

1.6 Lectures on various topics Lectures will be conducted on Vedas, Puranas, History, Darshan and modern topics related to the current affairs seeking guidance from Sanskrit literature.

1.7 The Taste  of Sanskrit literature A topic or Granth (book) from Sanskrit literature will be taken for reading and understanding from it.

(2) Cultural events

2.1 Drama shows The dramas from Sanskrit literature will be enacted.

2.2 Festival related Programmes Sanskrit Literature Festival, Sanskrit Garba, Sanskrit Bhajan Sandhya, Sanskrit Kavya goshthi, Sanskrit Natika.

(3) Publication

3.1 Monthly Newsletter

3.2 Books

3.3 Educational Content

(4) Sanskrit Library

All the Sanskrit books will be available at one place. (This is one of the future plans.)

All the above Programmes are aimed at increasing the speaking and reading of Sanskrit language and literature among the people. We look forward to welcoming more and more participants.