Publications Details

प्रस्तावना
वागर्थाविव सम्पृक्तौ वागर्थप्रतिपत्तये ।
जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ ।।
सर्वेभ्यः नमस्कारः ।
संस्कृतभाषायाः प्रचाराय एकलव्य संस्कृत-एकेडेमीद्वारा अनेके कार्यक्रमाः विधीयन्ते । संस्कृतभाषायाः अध्ययनाय विविधान् विषयान् अवलम्ब्य संस्कृतपुस्तकानां प्रकाशनं संस्थायाः महत् लक्ष्यं वर्तते । अनेके छात्राः संस्कृतभाषायाः अध्ययनाय आगच्छन्ति । किन्तु अध्ययनानन्तरं संस्कृतभाषया सह सम्पर्कः कथं स्यात् ? इति बहूनां प्रश्नः आसीत्। अतः भाषाभ्यासाय एकलव्य-संस्कृत-एकेडेमीद्वारा २००५ तमे वर्षे “संस्कृत साम्प्रतम्” मासिकपत्रिकायाः आरम्भः कृतः । प्रकाशितान् विविधान् लेखान् पठित्वा अध्येतारः पर्याप्तम् अभ्यासं प्राप्नुयुः इति अस्याः पत्रिकायाः आशयः अस्ति । पत्रिकासु प्रकाशिताः कथाः सर्वेभ्य अरोचन्त। कथाभिः आकृष्टाः बहवः छात्राः पुरातनान् अङ्कान् याचितवन्तः । किन्तु तेषां प्रदानम् अस्माकं कृते शक्यं न आसीत्। अतः “संस्कृत-साम्प्रतम्” पत्रिकासु प्रकाशितानां कथानाम् एकं कथासङ्ग्रहं प्रकाशयामः इति चिन्तनं मनसि आगतम् । तस्यैव क्रियान्वयः “संस्कृते एकपञ्चाशत् कथाः” इति कथासङ्ग्रहरुपेण क्रियते । अस्मिन् कथासङ्ग्रहे संस्कृतपठितॄणां सुखबोधाय सरलभाषायां पर्याप्तं साहित्यं वर्तते । संस्कृतस्य अल्पपरिचितः अध्येतापि एतस्य आस्वादं कुर्यात् इति अस्माकं लक्ष्यम् अस्ति । वस्तुतः एतं कथासङ्ग्रहं संस्कृताभिमानिनां पुरतः संस्थापयन्तः वयं धन्यताम् अनुभवामः ।
पुस्तकप्रकाशनस्य अस्मिन् शुभप्रसङ्गे अहं मम पितरौ गुरुन् च नमस्करोमि। मम मार्गदर्शकं श्री सुनील हाण्डा महोदयं प्रणमामि । महोदयस्य उत्साहेन एव एतत् सर्वं शक्यम् अभवत् । कथायाः लेखकान् अत्र सादरं स्मरामि । पुस्तकस्य परिशीलनकार्ये मम साहाय्यं कृतवतः मम परममित्रस्य श्री सतीष गज्जरस्य ऋणं स्वीकरोमि। सुन्दरं चित्राङ्कनं कृतवतः श्री मूकेश गज्जरस्य ऋणं स्वीकरोमि । पुस्तकनिमार्णे सहायकौ विपुलमहोदयं, राकेशमहोदयं चापि विशेषं स्मरामि।
अस्मिन् कार्ये प्रत्यक्षम् अप्रत्यक्षं वा साहाय्यं कृतवतां सर्वेषां धन्यवादः । अध्येतॄणां सुज्ञानां च सूचनानि अस्माकं मार्गदर्शनाय भविष्यन्ति ।
१५ जुलाई, ०८
प्रा. मिहिर उपाध्यायः
निदेशकः एकलव्य संस्कृत एकेडेमी